भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
तेनोत्तीर्य पथा लड़ां रोधयामास पिङ्गलैः।
द्वितीयं हेम१ प्राकारं कुर्वभिरिव वानरैः॥७१।
रणः प्रववृते तत्र भीमः प्लवगरक्षसाम्।
दिग्विजृम्भित - काकुत्स्थ -पौलस्त्य - जयघोषणः ॥७२॥
पादपाविद्धपरिघः, शिलानिष्पिष्टमुद्गरः।
अतिशस्त्रनखन्यासः शैलरुग्णमतङ्गजः॥७३॥
अथ रामशिरश्छेद - दर्शनोद्भ्रान्तचेतनाम्।
सीतां मायेति शंसन्ती त्रिजटा समजावयत्॥७४॥
कामं जीवति मे नाथ इति सा विजही शुचम्।
प्राङ् मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता॥७५॥
गरुडापात - विश्लिष्ट - मेघनादास्त्र - बन्धनः।
दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इवाभवत् ॥७६॥
ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम्।
रामस्त्वनाहतोऽप्यासीद् विदीर्णहृदयः शुचा॥७७॥
स मारुति - समानीत - महौषधि - हृत - व्यथः।
बङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः॥७८॥
स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम्।
मेघस्येव शरत्कालो न किंचित् पर्यशेषयत्॥७९॥
कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः।
रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः॥८०॥
---------------------------------
१. संयोगपूर्वत्वेऽप्यत्रेव दीर्घविकल्पः कु० ७॥११ पाठान्तरेऽपि।
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः