भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
रावणस्यापि रामास्तो भित्वा हृदयमाशुगः।
विवेश भुवमाख्यातुमुरगे भ्य इव प्रियम् ॥९१॥
वचसैव तयोर्वाक्यमस्त्रमस्त्रेण निघ्नतोः।
अन्योन्यजयसंरम्भो ववृधे वादिनोरिव ॥९२॥
विक्रमव्यतिहारेण सामान्याऽभूद् द्वयोरपि।
जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव॥९३॥
कृतप्रतिकृतप्रीतेस्तयोर्मुक्तां सुरासुरैः।
परस्पर-शरव्राताः पुष्पवृष्टि न सेहिरे॥९४॥
अयःशङ्कु-चितां रक्षः शतघ्नीमथ शत्रवे।
हृतां वैवस्वतस्येव १कूटशाल्मलिमक्षिपत् ॥९५॥
राघवो रथमप्राप्तां तामाशां च सुरद्विषाम्।
अर्द्धचन्द्रमुखैर्बाणैश्चिच्छेद कदलीसुखम्॥९६॥
अमोघं संदधे चास्मै धनुष्येकधनुर्धरः।
ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् ॥९७॥
द् व्योम्नि शतधा भिन्नं ददृशे दीप्तिमन्मुखम्।
वपुर्महोरगस्येव करालफणमण्डलम्॥९८॥
तेन मन्त्रप्रयुक्तेन निमेषार्धादपातयत्।
रावणशिरः-पङ्क्तिमज्ञातव्रणवेदनाम्॥९९॥
बालार्क प्रतिमेवाप्सु वीचि भिन्ना पतिष्यतः।
रराज रक्षःकायस्य कण्ठच्छेदपरम्परा॥१००॥
------------------------------
१. कूटशाल्मलिः अस्त्रविशेषोऽपि।
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः