लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


सखा दशरथस्यापि जनकस्य च मन्त्रकृत्।
संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधि ॥३१॥

स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया।
कविः कुशलवावेव चकार किल नामतः ॥३२॥

सार्ङ्ग च वेदमध्याप्य किचिदुत्क्रान्तशैशवौ।
स्वकृति गापयामास कविप्रथमपद्धतिम्॥३३॥

रामस्य मधुरं वृत्तं गायन्तौ मातुरग्रतः।
तवियोगव्यथां किञ्चिच्छिथिलीचक्रतुः सुतौ ॥३४॥

इतरेऽपि रघोर्वश्यास्त्रयस्त्रेताग्नितेजसः।
तद्योगात् पतिवत्नीषु पत्नीष्वासन् द्विसूनवः॥३५॥

शत्रुघातिनि शत्रुघ्नः सुबाहौ च बहुश्रुते।
मधुराविदिशेसुन्वोनिदधे पूर्वजोत्सुकः॥३६॥

भूयस्तपोव्ययो मा भूद वाल्मीकेरिति सोऽत्यगात्।
मैथिलीतनयोगीत - निःस्पन्दमृगमाश्रमम् ॥३७॥

वशी विवेश चायोध्यां , रथ्यासंस्कारशोभिनीम्।
लवणस्य वधात् पौरैरीक्षितोऽत्यन्तगौरवम् ॥३८॥

स ददर्श सभामध्ये सभासद् भिरुपस्थितम्।
रामं सीतापरित्यागादसामान्यपति भुवः॥३९॥

तमभ्यनन्दत् प्रणतं लवणान्तकमग्रजः।
कालनेमिवधात् प्रीतस्तु राषाडिव शाङ्गिणम्॥४०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book