लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


तपस्यनधिकारित्वात् प्रजानां तमघावहम्।
शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रमाददे॥५१॥

स तद्वक्त्रं हिमक्लिष्टकिजल्कमिव पङ्कजम्।
ज्योतिष्कणाहतश्मश्रु , कण्ठनालादपातयत्॥५२॥

कृतदण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिम्,।
तपसा दुश्चरेणापि न स्वमार्ग विलङ्घिना॥५३॥

रघुनाथोऽप्यगस्त्येन मार्गसंदशितात्मना।
महौजसा संयुयुजे शरत्काल इवेन्दुना॥५४॥

कुम्भयोनिरलंकारं तस्मै दिव्यपरिग्रहम्।
ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयम् ॥५५॥

तं दधन्मैथिलीकण्ठनिर्यापारेण बाहुना।
पश्चान्निववृते रामः प्राक् परासुद्वजात्मजः॥५६॥

तस्य पूर्वोदितां निन्दां द्विजः पुत्रसमागतः।
स्तुत्या निवर्तयामास त्रातुर्वैवस्वतादपि॥५७॥

तमध्वराय मुक्ताश्वं रक्षःकपिनरेश्वराः।
मेघाः सस्यमिवाम्भोभिरभ्यवर्षन्तुपायनैः॥५८॥

दिग्भ्यो निमन्त्रिताश्चैनमभिजग्मुर्महर्षयः।
न भौमान्येव धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि॥५९॥

उपशल्यनिविष्टैस्तैश्चतुरमुखी वभौ।
अयोध्या सृष्टलोकेव सद्यः पैतामही तनुः॥६०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book