भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
षोडशः सर्गः
अथेतरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया गुणैश्च।
चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रमेषां हि कुलानुसारि॥१॥
ते सेतुवार्तागजवन्धमुख्यैरभ्युच्छुिताः कर्मभिरप्यवन्ध्यैः।
अन्योन्यदेशप्रविभागसीमां वेलां समुद्र इव न व्यतीयुः ॥२॥
चतुर्भुजांशप्रभवः स तेषां दानप्रवृत्तेरनुपारतानाम्।
सुरद्विपानामिव सामयोनिभिन्नोऽष्टधा विप्रससार वंशः॥३॥
अथार्धरात्रे स्तिमितप्रदीप शय्यागृहे सुप्तजने प्रबुद्धः।
कुशः प्रवासस्थकलत्रवेषामदृष्टपूर्वी वनितामपश्यत्॥४॥
सा साधुसाधारणपाथवर्द्धः स्थित्वा पुरस्तात् पुरुहूतभासः।
जेतुः परेषां जयशब्दपूर्वं तस्याञ्जलि वन्धुमतो ववन्ध॥५॥
अथानपोढार्गलमप्यगारंछायामिवादर्शतलं प्रविष्टाम्।
सविस्मयो दाशरथेस्तनूजः प्रोवाच पूवार्धविसृष्टतल्पः॥६॥
लब्धान्तरा सावरणेऽपि गेहे योगप्रभावो न च लक्ष्यते ते।
विभषि चाकारमनिवृतानां मृणालिनी हैममिवोपरागम्॥७॥
का त्वं शुभे कस्य परिग्रहो वा किंवा मदभ्यागमकारणं ते।
चक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रोविमुखप्रवृत्ति॥८॥
तमब्रवीत् सा गुरुणानवद्या या नीतपौरा स्वपदोन्मुखेन।
तस्याः पुरः संप्रति वीतनाथां जानीहि राजन्नधिदेवतां माम्॥९॥
वस्वौकसारामभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या।
समग्रशक्तौ त्वयि सूर्यवंश्ये सति प्रपन्ना करुणामवस्थाम् ॥१०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः