भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गमनाप्नुवन्ति।
उपान्तवानीरगृहाणि दृष्ट्वा शून्यानि दूये सरयूजलानि॥२१॥
तदर्हसीमां वसति विसृज्य मामभ्युपेतुं कुलराजधानीम्।
हित्वा तनं कारणमानुषीं तां यथा गुरुस्ते परमात्ममूर्तिम् ॥२२॥
तथेति तस्याः प्रणयं१ प्रतीतः प्रत्यग्रहीत् प्राग्रहो रघूणाम्।
पूरप्यभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरोबभूव॥२३॥
तदभुतं संसदि रात्रिवृत्तं प्रातर्विं जेभ्यो नृपतिः शशंस।
श्रुत्वा त एनं कुलराजधान्या साक्षात्पतित्वे वृतमभ्यनन्दन्॥२४॥
कुशावतीं श्रोत्रियसात् स कृत्वा यात्रानुकलेऽहनि सावरोधः।
अनुदुतो वायुरिवाभ्रवृन्दैः सैन्यैरयोध्याभिमुखः प्रतस्थे ॥२५॥
सा केतुमालोपवना बृहदभिर्विहारशैलानुगतेव नागैः।
सेना रथोदारगृहा प्रयाणे तस्याभवज्जङ्गमराजधानी॥२६॥
तेनातपत्रामलमण्डलेन प्रस्थापितः पूर्वनिवासभूमिम्।
बभौ वलौघः, शशिनोदितेन वेलामुदन्वानिव नीयमानः॥२७॥
तस्य प्रयातस्य वरूथिनीनां पीडामपर्याप्तवतीव सोढम्।
वसुन्धरा विष्णुपदं द्वितीयमध्यारुरोहेव रजश्छलेन ॥२८॥
उद्यच्छमाना गमनाय पश्चात् पुरो निवेशे पथि च व्रजन्ती।
सा यत्र सेना ददृशे नृपस्य तत्रैव सामग्रयमति चकार॥२९॥
तस्य द्विपानां मदवारिसेकात् खुराभिघाताच्च तुरङ्गमाणाम्।
रेणुः प्रपेदे पथि पङ्कभावं पङ्कोऽपि रेणुत्वमियाय नेतुः॥३०॥
-------------------------------
१. प्रणयः प्रीतिपूर्णी याच्आ। र. २।३६, १९।२१, वि. ४५१३, १५ श्लो० मे० ११५.
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः