भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
रघुभ शं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः।
निमेषमात्रादवधूय तद्व्यथां सहोत्थितः सैनिकहर्ष निःस्वनः॥६१॥
तथापि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरमस्य तस्थुषः।
तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्र गुणैनिधीयते॥६२॥
असङ्गमद्रिष्वपि सारवत्तया न मे त्वदन्येन विसोढमायुधम्।
अवेहि मां प्रीतमृते तुरङ्गमात् किमिच्छसीति स्फुटमाह वासवः॥६३॥
ततो निषङ्गादसमग्रमुद्धृतं सुवर्णपुङ्घद्युतिरञ्जिताङ्गुलिम्।
नरेन्द्रसूनुः प्रतिसंहरन्निषु प्रियम्वदः प्रत्यवदत् सुरेश्वरम्॥६४॥
अमोच्यमश्वं यदि मन्यसे प्रभो ततः समाप्ते विधिनैव कर्मणि।
अजस्रदीक्षाप्रयतः स मदगुरुः क्रतोरशेषेण फलेन युज्यताम्॥६५॥
यथः च वृत्तान्तमिमं सदोगतस्त्रिलोचनेकांशतया दुरासदः।
तवैव संदेशहराद् विशांपतिः शृणोति लोकेश तथा विधीयताम्॥६६॥
तथेति कामं प्रतिशुश्रुवान् रघोर्यथागतं मातलिसारथिर्ययो।
नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिणासूनुरपि न्यवर्तत ॥६७॥
तमभ्यनन्दत् प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः।
परामृशन् हर्षजेडेन पाणिना तदीयमङ्गं कुलिशव्रणाङ्कितम्॥६८॥
इति क्षितीशो नवतिं नवाधिक महाऋतूनां महनीयशासनः।
समारुरुक्षुदिवमायुषः क्षये ततान सोपानपरम्परामिव॥६९॥
अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे
नृपतिककुदं यूने दत्त्वा सितातपवारणम्।
मुनिवनतरुच्छायां, देव्या तया सह शिश्रिये
गलितवयसामिक्ष्वाकुणामिदं हि कुलव्रतम् ॥७०॥
॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये रघुराज्याभिषेको नाम तृतीयः सर्गः॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः