लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


तस्योपकार्यारचितोपचारा वन्येतरा जानपदोपदाभिः।
मार्गे निवासी मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पाः॥४१॥

से नर्मदारोधसि सीकराद्वैर्मरुदभिरानर्तित-नक्तमाले।
निवेशयामास विलङ्घिताध्वी क्लान्तं रजोधूसरकेतु सैन्यम् ॥४२॥

अथोपरिष्टाद् भ्रमभ्रमभिः प्राक्सूचितान्त:सलिलप्रवेशः।
निधौंतदानामलगण्डभित्तिर्वन्यः सरित्तो गज उन्ममज्ज।४३॥

निःशेषविक्षालितधातुनापि वप्रक्रियामृक्षवतस्तटेषु।
नीलोवरेखाशवलेन शंसन् दन्तद्वयेनाश्मविकुण्ठितेन॥४४॥

सहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम्।
बभौ स भिन्दन् बृहतस्तरङ्गान् वार्यर्गलाभङ्ग इवे प्रवृत्तः॥४५॥

शैलोपमः शैवलमञ्जरीणां जालानि कर्षन्तुरसा स पश्चात्।
पूर्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटमुत्ससर्प॥४६॥

तस्यैकनागस्य कपोलभित्त्योर्जलावगाहक्षणमात्रशान्ता।
वन्येतरानेकपदर्शनेन पुनदिदीपे मददुनिश्रीः॥४७॥

सप्तच्छदक्षीरकटुप्रवाहमसह्यमाघ्राय मदं तदीयम्।
विलङ्तिाधोरणतीव्रयत्नाः सेनागजेन्द्रा विमुखा बभूवुः॥४८॥

सच्छिन्नवन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन।
रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार॥४९॥

तमापतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान् कुमारः।
निवर्तयिष्यन् विशिखेन कुम्भे जघान नात्यायतकृष्टशार्गः॥५०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai