लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


यावत् प्रतापनिधिराक्रमते न भानु
रह्लाय तावदरुणेन तमो निरस्तम्॥
आयोधनाग्रसरतां त्वयि वीर याते।
किं वा रिपूस्तव गुरुः स्वयमुच्छिनत्ति?॥७१॥

शय्यां जहत्युभयपक्षविनीतनिद्राः
स्तम्बेरमा मुखरशृङ्खलकर्षणस्ते।
येषां विभान्ति तरुणारुणरागयोगाद्
भिन्नाद्रिगैरिकतटा इव दन्तकोशाः ॥७२॥

दीर्घष्वमी नियमिताः पटमण्डपेषु
निद्रां विहाय बनजाक्ष वनायुदेश्याः।
वक्त्रोष्मणा मलिनयन्ति पुरोगतानि।
ले ह्यानि सैन्धवशिलाशकलानि वाहाः॥७३॥

भवति विरल भक्तिम्लनपुष्पोपहारः
स्वकिरणपरिवेषोद्भेदशून्याः प्रदीपाः।
अयमपि च गिरं नस्त्वत्प्रबोधप्रयुक्ता
मनुवदति शुकस्ते मजुवाक् पञ्जरस्थः॥७४॥

इति विरचितवाग्भिर्वन्दिपुत्रैः कुमारः
सपदि विगतनिद्रस्तल्पमुज्झाञ्चकार।
मदपटुनिनदभिर्वोधितो राजहंसः
सुरगज इव गाङ्गं सैकतं सुप्रतीकः॥७५॥
 
अथ विधिमवसाय्य शास्त्रदृष्टं दिवसमुखोचितमञ्चिताक्षिपक्ष्मा।
कुशलविरचितानुकूलवेषः क्षितिप-समाजमगात् स्वयंवरस्थम्॥७६॥

॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये अजस्क्यंवराभिगमनो नाम पञ्चमः सर्गः॥






...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai