लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


प्रियम्वदात् प्राप्तमसौ कुमारः प्रायुक्त राजस्वधिराज सुनुः।
गान्धर्व मस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वप्ननिवृत्तलौल्यः ॥६१॥

ततो धनुष्कर्षणमूढहस्तमेकांसपर्यस्तशिरस्त्रजालम्।
तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम्॥६२॥

ततः प्रियोपात्तरसेऽधरोष्ठे निवेश्य दध्मौ जलज कुमारः।
तेन स्वहस्ताजितमेकवीरः पिबन् यशो मूर्तमिवाबभासे ॥६३॥

शङ्खस्वनाभिज्ञतया निवृत्तास्तं सन्नशत्रु ददृशुः स्वयोधाः।
निमीलितानामिव पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कम्॥६४॥

सशोणितस्तेन शिलीमुखाग्र र्निक्षेपिताः केतुषु पार्थिवानाम्।
यशो हृतं संप्रति राघवेणे न जीवितं वः कृपयेति वर्णाः॥६५॥

स चापकोटीनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः।
ललाटबद्धश्रमवारिविन्दुर्भीतां प्रियामेत्य वचो बभाषे ॥६६॥

इतः परानर्भकहार्य शस्त्रान् वैदर्भि पश्यानुमता मयासि।
एवंविधेनाहवचेष्टितेन त्वं प्राय॑से हस्तगता ममभिः॥६७॥

तस्याः प्रतिद्वन्द्वि भवाद् विषादात् सद्यो विमुक्तं मुखमावभासे।
नि:श्वासवाष्पापगमात् प्रपन्नः प्रसादमात्मीयमिवात्मदर्शः॥६८॥

हृष्टापि सा ह्रीविजिता न साक्षाद् वाग्भिः सखीनां प्रियमभ्यनन्दत्।
स्थली नवाम्भःपृषताभिवृष्टा मयूरकेकाभिरिवाभ्रवृन्दम्१॥६९॥

इति शिरसि स वामं पादमाधाय राज्ञा-
मुदवदनवद्यां तामवद्यादपेतः।
रथतुरगरजोभिस्तस्य रूक्षालकाग्रा।
समरविजयलक्ष्मीः सैव मूर्त्ता बभूव॥७०॥

प्रथमपरिगतार्थस्तं रघुः संनिवृत्तं
विजयिनमभिनन्द्य श्लाघ्यजायासमेतम्।
तदुपहितकुटुम्वः शान्तिमार्गोत्सुकोऽभू
न्न हि सति कुलधुर्ये सूर्यवंश्या गृहाय॥७१॥

॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये अजविवाहो नाम सप्तमः सर्गः॥


---------------------
१. कु० ६।३

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book