लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


प्रतियोजयितव्यवल्लकीसमवस्थामथ सत्त्वविप्लवात्।
स निनाय नितान्तवत्सलः परिगृह्योचितमङ्मङ्गनाम् ॥४१॥

पतिरङ्कनिषष्णया तया करणापायविभिन्नवर्णया।
समलक्ष्यत विभ्रदाविलां मृगलेखामुषसोव चन्द्रमाः ॥४२॥

विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम्।
अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु॥४३॥

कुसुमान्यपि गात्रसङ्गमात् प्रभवन्त्यायुरपोहितं यदि।
न भविष्यति हन्त साधनं किमिवान्यत् प्रहरिष्यतो विधेः॥४४॥

अथवा मृदु वस्तु हिसितं मृदुनेवारभते प्रजान्तकः।
हिमसेकविपत्तिरत्र मे नलिनो पूर्वनिदर्शन मता॥४५॥

स्रगियं यदि जीवितापहा हृदये कि निहिता न हन्ति माम्।
विषमप्यमृतं क्वचिद् भवेदमतं वा विषमीश्वरेच्छया॥४६॥

अथवा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा।
यदनेन तरुर्न पातितः क्षपिता तविटपाश्रिता लता॥४७॥

कृतवत्यसि नावधीरणामपराद्धेऽपि यदा चिरं मयि।
कथमेकपदे निरागसं जनमाभाष्यमिमं ने मंन्यसे॥४८॥

ध्रुवमस्मि शठः शुचिस्मते विदितः केतववत्सलस्तव।
परलोकमसंनिवृत्तये यदनापृच्छ्य गतासि मामितः॥४९॥

दयितां यदि तावदन्वगाद् विनिवृत्तं किमिदं तया विना।
सहतां हतजीवितं मम प्रबलामात्मकृतां तु वेदनाम्॥५०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book