लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ।
अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसाम्प्रतम्॥६१॥

कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयष्यति।
अलकाभरणं कथं नु तत् तव नेष्यामि निवापमाल्यताम्॥६२॥

स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्यदुर्लभम्।
अमुना कुसुमाश्रुवर्षिणा त्वमशोकेन सुगात्रि शोच्यसे॥६३॥

तव नि:श्वसितानुकारिभिर्बकुलैरर्धचितां समं मया।
असमाप्य विलासमेखलां किमिदं किन्नरकण्ठि! सुप्यते॥६४॥

समदुःखसुखः सखोजनः प्रतिपच्चन्द्रनिभोऽयमात्मजः।
अहमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः॥६५॥

धृतिरस्तमिता रतिश्च्युता विरतं गेयमृतुर्निरुत्सवः।
गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे॥६६॥

गृहिणी सचिवः सखा१ मिथःप्रियशिष्या ललिते कलाविधौ।
करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम्॥६७॥

मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत् कथं नु मे।
अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिम्॥६८॥

विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम्।
अहृतस्ये विलोभनान्तरेर्मम सर्वे विषयास्त्वदाश्रयाः॥६९॥

विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति।
अकरोत् पृथिवीरुहानपि सुतशाखारसवाष्पदूषितान्॥७०॥
-------------------------
१. सखी म., सखा पाण्डुग्रन्थाः हेमाद्रिश्च, संवादी चात्र भासः।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book