भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम्।
तदलब्धपदं हृदि शोकघने प्रतियातमिवान्तिकमस्य गुरोः ॥९१॥
तेनाष्टौ परिगमिताः समाः कथंचिद्
बालत्वादवितथसूनृतेन सुनोः।
सादश्यप्रतिकृतिदर्शनैः प्रियायाः
स्वप्नेषु क्षणिकसमागमोत्सवेश्च ॥९२॥
तस्य प्रसह्य हृदयं किल शोकशङ्कुः
प्लक्षप्ररोह इव सौधतलं बिभेद।
प्राणान्तहेतुमपि तं भिषजामसाध्य।
लाभं प्रियानुगमने त्वरया से मेने ॥९३॥
सम्यग्विनीतमथ वर्महरं कुमार
मादिश्य रक्षणविधौ विधिवत् प्रजानाम्।
रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः
प्रायोपवेशनमतिनृपतिर्बभूव ॥९४॥
तीर्थे तोयव्यतिकरभवे जहनुकन्यासरय्वो
देहत्यागादमरगणनालेख्यमासाद्य सद्यः।
पूर्वकाराधिकतररुचा संगतः कान्तयासी
लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु॥९५॥
॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये अजविलापो नामाष्टमः सर्गः॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः