भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
नैऋतघ्नमर्थ मन्त्रवन्मुनेः प्रापदस्त्रमवदानतोषितात्।
ज्योतिरिन्धननिपाति भास्करात् सूर्यकान्त इव ताडकान्तकः ॥२१॥
वामनाश्रमपदं ततः परं पावनं श्रुतमृर्षरुपेयिवान्।
उन्मनाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः॥२२॥
आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पितार्हणम।
बद्धपल्लवपुटाञ्जलिद्र में दर्शनोन्मुखमृगं तपोवनम्॥२३॥
तत्र दीक्षितमृर्षि ररक्षतुर्विघ्नतो दशरथात्मज शरैः।
लोकमन्धतमसात् क्रमोदिती रश्मिभिः शशिदिवाकराविव ॥२४॥
वीक्ष्य वेदिमथ रक्तबिन्दुभिर्बन्धुजीवपृथुभिः प्रदूषिताम्।
संभ्रमोऽभवदपोढकर्मणामृत्विजांच्युत विकङ्कतस्रुचाम्॥२५॥
उन्मुखः सपदि लक्ष्मणाग्रजो बाणमाश्रयमुखात् समुद्धरन्।
रक्षसां बलमपश्यदम्बरे गृध्रपक्षपवनेरितध्वजम्॥२६॥
तत्र यावधिपती मखद्विषां तौ शरव्यमकरोत् स नेतरान्।
कि महोरगविसपविक्रमो राजिलेषु गरुडः प्रवर्तते॥२७॥
सोऽस्त्रमुग्र-जवमस्त्रकोविदः संदधे धनुषि वायुदैवतम्।
तेन शेलगुरुमप्यपातयत् पाण्डुपत्रमिव ताड़कासुतम्॥२८॥
यः सुबाहुरिति राक्षसोऽपरस्तत्र तत्र विससर्प मायया।
तं क्षुरप्र-शकलीकृतं कृती पत्त्रिणां व्यभजदाश्रमाद् बहिः ॥२९॥
इत्यपास्तमखविघ्नयोस्तयोः सांयुगीनमभिनन्द्य विक्रमम।
ऋत्विजः कुलपतेर्यथाक्रमं वाग्यतस्य निरवर्तयन् क्रियाः॥३०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः