लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान् वचनमग्रजन्मनः।
उच्चचाल बलभित्सखो वशी सैन्यरेणुमुषितार्कदीधितिः॥५१॥

आससाद मिथिलां स वेष्टयन् पीडितोपवनपादपां बलैः।
प्रीतिरोधमसहिष्ट सा पुरी स्त्रीव कान्तपरिभोगमायतम्॥५२॥

तौ समेत्य समये स्थितावुभौ भूपती वरुणवासवोपमौ।
कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः॥५३॥

पार्थिवीमुदवहद् रघूवहो लक्ष्मणस्तदनुजामथोर्मिलाम्।
यौ तयोरवरजौ वौजसौ तौ कुशध्वजसुते सुमध्यमे॥५४॥

ते चतुर्थसहितास्त्रयो बभुः सुनवो नववधूपरिग्रहाः।
सामदानविधिभेदनिग्रहाः सिद्धिमन्त इव तस्य भूपतेः॥५५॥

ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन् कृतार्थताम्।
सोऽभवद् वरवधूसमागमः प्रत्यय-प्रकृति-योगसन्निभः॥५६॥

एवमात्तरतिरात्मसंभवाँस्तान् निवेश्य१ चतुरोऽपि तत्र सः।
अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरी दशरथो न्यवर्तत॥५७॥

तस्य जातु मरुतः प्रतीपगा वत्र्मसु ध्वजतरुप्रमाथिनः।
चिक्लिशुभृ शतया वरूथिनीमुत्तटा इव नदीरयाः स्थलीम्॥५८॥

लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपरिवेषमण्डलः।
वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः॥५९॥

श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिराद्र वाससः।
अङ्गना इव रजस्वला दिशो नो वभूवुरवलोकनक्षमाः॥६०॥
---------------------------
१. निवेश्य विवाह्य, ‘निवेशः शिविरोद्वाहविन्यासेषु'वि. म.हे, द्र. शा. ४॥२०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book