लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्


तपःपरामर्श विवृद्धमन्योभ्रं भङ्गदुष्प्रेक्ष्यमुखस्य तस्य।
स्फुरन्नुर्दाचः सहसा तृतीयादक्ष्णः कृशानुः किल निष्पपात॥७१॥

क्रोधं प्रभो संहर संहरेति यावद् गिरः खे मरुतां चरन्ति।
तावत् स वह्निर्भवनेत्रजन्मा भस्मावशेष मदनं चकार॥७२॥

तीव्राभिषङ्गप्रभवेण वृत्ति मोहेन संस्तम्भयतेन्द्रियाणाम्।
अज्ञातभर्तृव्यसना मुहूर्त कृतोपकारेव रतिर्बभूव॥७३॥

तमाशु विघ्नं तपसस्तपस्वी वनस्पति वज्र इवावभज्य।
स्त्रीसनिकषं परिहर्तुमिच्छन्नन्तर्दधे भूतपतिः सभूतः॥७४॥

शैलात्मजापि पितुरुच्छिरसोऽभिलाषं
व्यर्थं समर्थ्य ललितं वपुरात्मनश्च।
सख्योः समक्षमिति चाधिकजातलज्जा
शून्या जगाम भवनाभिमुखी कथंचित्॥७५॥

सपदि मुकुलिताक्षीं रुद्रसंरम्भभीत्या
दुहितरमनुकम्प्यामदिरादाय दोभ्यम्।
सुरगज इव विभ्रत् पद्मिनीं दन्तलग्नां
प्रतिपथगतिरासीद् वेगदीर्घाकृताङ्गः ॥७६॥

॥इति श्रीमहाकविकालिदासकृतौ कुमारसंभवे महाकाव्ये मदनदहनो नाम तृतीयः सर्गः॥




...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book