लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्


विसृष्टंरागादधरान्निवततः स्तनाङ्गरागारुणिताच्च कन्दुकात्।
कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः॥११॥

महार्हशय्यापरिवर्तनच्युतः स्वकेशपुष्पैरपि या स्म दूयते।
अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एव केवले॥१२॥

पुनर्ग्रहीतुं नियमस्थया तया द्वयेऽपि निक्षेप इवापितं द्वयम्।
लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च॥१३॥

अतन्द्रिता सा स्वयमेव वृक्षकान् घटस्तनप्रस्रवणैर्यवर्धयत्।
गुहोऽपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यमपाकरिष्यति॥१४॥

अरण्यवीजाञ्जलिदानलालितास्तथा च तस्यां हरिणा विशश्वसुः।
यथा तदीयैर्नयनैः कुतूहलात् पुरः सखीनाममिमीत लोचने॥१५॥

कृताभिषेक हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीतिनीम्।
दिदृक्षवस्तामृषयोऽम्युपागमन् न धर्मवृद्धेषु वयः समीक्ष्यते॥१६॥

विरोधिसत्त्वोज्झितपूर्वमत्सरं द्रमैरभीष्टप्रसवार्चितातिथि।
नवोटजाभ्यन्तरसंभृतानलं तपोवनं तच्च बभूवे पावनम्॥१७॥

यदा फलं पूर्वतप:समाधिना न तावता लभ्यममंस्त काक्षितम्॥
तदानपेक्ष्य स्वशरीरमार्दवं तपो महत् सा चरितुं प्रचक्रमे॥१८॥

क्लमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं व्यगाह्यत॥
ध्रुवं वपुः काञ्चनपद्मनिमितं मृदु प्रकृत्या च ससारमेव च॥१९॥

शुचौ चतुण ज्वलतां हविभुजां शुचिस्मिता मध्यगता सुमध्यमा।
विजित्य नेत्रप्रतिघातिनीं प्रभामनन्यदृष्टिः सवितारमैक्षत ॥२०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai