लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्


तेषां मध्यगता साध्वी पत्युः पादापतेक्षणा।
साक्षादिव तपःसिद्धिर्बभासे बढ्रुन्धती ॥११॥

तामगौरवभेदेन मुनींश्चापश्यदीश्वरः।
स्त्रीपुमानित्यनास्थैषा वृत्तं हि महितं सताम्॥१२॥

तद्दर्शनादभूच्छम्भोर्भुयान दारार्थमादरः।
क्रियाणां खलु धम्र्याणां१ सत्पत्न्यो मूलकारणम्॥१३॥

धर्मेणापि पदं शर्वे कारिते पार्वतीं प्रति।
पूर्वापराधभीतस्य कामस्योच्छ्वसितं मनः॥१४॥

अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम्।
इदमूचुरनूचानाः प्रीतिकण्टकतत्वचः॥१५॥

यद् ब्रह्म सम्यगाम्नातं यदग्नौ विधिना हुतम्।
यच्च तप्तं तपस्तस्य . विपक्वं फलमद्य नः॥१६॥

यदध्यक्षेण जगतां वयमारोपितास्त्वया।
मनोरथस्याविषयं मनोविषयमात्मनः ॥१७॥

यस्य चेतसि वर्तेथाः स तावत् कृतिनां वरः।
किं पुनर्ब ह्मयोनेर्यस्तव चेतसि वर्तते॥१८॥

सत्यमकच्चि सोमाच्च परमध्यास्महे पदम्।
अद्य तूच्चस्तरं ताभ्यां स्मरणानुग्रहात् तव ॥१९॥

त्वत्संभावितमात्मानं बहु मन्यामहे वयम्।
प्रायः प्रत्ययमाधत्ते स्वगुणेषुत्तमादरः ॥२०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book