लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0

कुमारसंभवं नाम महाकाव्यम्


सोऽनुमान्य हिमवन्तमात्मभूरात्मजाविरहदुःखखेदितम्।
तत्र तत्र विजहार संपतन्नप्रमेयगतिना ककुद्मता॥२१॥

मेरुमेत्य मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतान् कृती।
हेमपल्लवविभङ्गसंस्तरानन्वभूत् सुरतमर्दनक्षमान्॥२२॥

पद्मनाभचरणाङ्किताश्मसु प्राप्तवत्स्वमृतविपुषो नवाः।
मन्दरस्य कटकेषु चावसत् पार्वतीवनपद्मषट्पदः॥२३॥

रावणध्वनितभीतया तया कण्ठसक्तदढबाहुबन्धनः।
एकपिङ्गलगिरौ जगद्गुरुर्निर्विवेश विशदाः शशिप्रभाः॥२४॥

तस्य जातु मलयस्थलीरते धूतचन्दनलतः प्रियाक्लमम्।
चिचाम सलवङ्गकेसरश्चाटुकार इव दक्षिणानिलः॥२५॥

हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा।
सा व्यगाहत तरङ्गिणीमुमा मीनपक्तिपुनरुक्तमेखला ॥२६॥

तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन्।
नन्दने चिरमयुग्मलोचनः सस्पृहं सुरवधूभिरीक्षितः ॥२७॥

इत्यभौममनुभय शङ्करः पार्थिवं च दयितासखः सुखम्।
लोहितायति कदाचिदातपे गन्धमादनवनं व्यगाहत॥२८॥

तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यमवलोक्य भास्करम्।
दक्षिणेतरभुजव्यपाश्रयां व्याजहार सहधर्मचारिणीम्॥२९॥

पद्मकान्तिमरुणत्रिभागयोः संक्रमय्य तव नेत्रयोरिव।
संक्षये जगदिव प्रजेश्वरः संहरत्यहरसावहर्पतिः॥३०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book