भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित कुमारसम्भव महाकाव्य-कालिदास विरचितनेमिचन्द्र शास्त्री
|
0 |
कुमारसंभवं नाम महाकाव्यम्
तां विलम्बि-तपनीयमेखलामुद्द्वहजघनभारदुर्वहाम्।
ध्यानसंभृतविभूतिरीश्वरः प्राविशन्मणिशिलागृहं रहः॥८१॥
तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनम्।
अध्यशेत शयनं प्रियासखः शारदाभ्रमिव रोहिणीपतिः॥८२॥
क्लिष्टकेशमवलुप्तचन्दनं व्यत्ययापितनखं समत्सरम्।
तस्य तच्छिदुरमेखलागुणं पार्वतीरतमभून्न तृप्तये॥८३॥
केवलं प्रियतमादयालुना ज्योतिषामवनतासु पक्तिषु।
तेन तत्प्रतिगृहीतवक्षसा नेत्रमीलनकुतूहलं. कृतम्॥८४॥
स व्यबुध्यत बुधस्तवोचितः शातकुम्भकमलाकरैः समम्।
मूच्र्छनापरिगृहीतकेशिकैः किन्नरैरुषसि गीतमङ्गलः ॥८५॥
तौ क्षणं शिथिलितोपगूहनौ दम्पती चलितमानसोर्मयः।
पद्मभेदपिशुनाः सिषेविरे गन्धमादनवनान्तमारुताः॥८६॥
ऊरुमूलनखमार्गराजिभिस्तत्क्षणं हृतविलोचनो हरः।
वाससः प्रशिथिलस्य संयमं कुर्वतीं प्रियतमामवारयत्॥८७॥
प्रजागरकषायलोचनं गाढदन्तपरिताडिताघरम्।
आकुलालकमरंस्त रागवान् प्रेक्ष्य भिन्नतिलकं प्रियामुखम् ॥८८॥
तेन भिन्नविषमोत्तरच्छदं मध्यपण्डितविसूत्रमेखलम्।
निर्मलेऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम्॥८९॥
स प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिषेविषुः।
दर्शनप्रणयिनामदृश्यतामाजगाम विजयानिवेदनात्॥९०॥
समदिवसनिशीथं सङ्गिनस्तत्र शम्भोः।
शतमगमदतूनां साग्रमेका निशेव।
न तु सुरतसुखेभ्यश्छिन्नतृष्णो बभूव
ज्वलन इव समुद्रान्तर्गतस्तज्जलौघैः ॥९१॥
॥इति श्रीमहाकविकालिदासकृतौ कुमारसंभवे महाकाव्ये पार्वतीपरमेश्वरवर्णनो नामाष्टमः सर्गः*॥
[ समाप्तमिदं कुमारसंभवं नाम महाकाव्यम् ]
----------------------------
* इतः परं ये सर्गाः, ते कालिदासबाह्याः। तत्र हेतवः अस्पृष्टकालिदासप्रतिभाकत्वाद् वाक्यवक्रोक्तिभेदः, दुःशकस्य परमेश्वरोद्वाहस्य संपत्तौ कातिकेयसंभवस्य तत्कर्तृकस्य तारकवधस्य चौत्सगिकत्वम्, अग्रिमस्य वस्तुनोऽश्लीलप्रयित्वादकाव्योचितत्वं च। भगवतस्तेजंसस्तत्र तत्र संक्रान्तिह पुराणमात्रे स्थानं लभेत, न तुचितत्वमात्रप्राणे काव्ये। श्रूयते चात्र शप्तः कविः। ततश्च कथमसावग्रतः प्रवर्तेत।
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः