लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


मातङ्गनरैः सहसोत्पतभिभिन्नान् द्विधा पश्य समुद्रफेनन्।
कपोलसंसपितया य एषां व्रजन्ति कर्णक्षणचामरत्वम्॥११॥

वेलानिलाय प्रसृता भुजङ्गा महोमिविस्फूर्जथुनिविशेषाः।
सूर्याशुसंपर्कसमृद्धरागैर्यज्यन्त एते मणिभिः फणस्थैः॥१२॥

तवाधरस्पधिषु विद्युमेषु पर्यस्तमेतत् सहसोमवेगात्।
ऊध्र्वाकुरप्रोतमुखं कथंचित् क्लेशादपक्रामति शङ्खयूथम्॥१३॥

प्रवत्तमात्रेण पयांसि पातुमावर्त्तवेगाद् भ्रमता घनेन।
अभाति भूयिष्ठमयं समुद्रः प्रमथ्यमानो गिरिणेव भूयः॥१४॥

दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला।
अभाति वेला लवणाम्बुराशेर्धारानिबद्धेव कलङ्करेखा॥१५॥

वेलानिलः केतकरेणुभिस्ते संभावयत्याननमायताक्षि।
मामक्षमं मण्डनकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णम् ॥१६॥

एते वयं सैकतभिन्न शक्तिपर्यस्तमुक्तापटलं पयोधेः।
प्राप्ता मुहूर्तेन विमानवेगात् कुलं फलावजितपूगमालम्॥१७॥

कुरुष्व तावत् करभोरु पश्चान्मार्गे मृगप्रेक्षिणि दृष्टिपातम्।
एषा विदूरीभवतः समुद्रात् सकानना निष्पततीव भूमिः१ ॥१८॥

क्वचित् पथा संचरते सुराणां क्वचिद् घनानां पततां क्वचिच्च।
यथाविधो मे मनसोऽभिलाषः प्रवर्तते पश्य तथा विमानम्२ ॥१९॥

असौ महेन्द्र-द्विप-दानगन्धिस्त्रिमार्गगा-वीचि-विमर्द-शीतः।
आकाशवायुदिनयौवनोत्थानाचामति स्वेदलवान् मुखे ते ॥२०॥
-------------------
१. शा. सप्तमाङ्कारम्भे
२. शा. सप्तमाङ्कारम्भे
३. चण्डि म.

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai