भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
करेण वातायनलम्वितेन स्पृष्टस्त्वया ३तन्वि कुतूहलिन्या।
आमुञ्चतीबाभरणं द्वितीयमुभिन्नविद्युवलयो घनस्ते॥२१॥
अमी जनस्थानमपोढविघ्नं मत्वा समारब्धनवोटजानि।
अभ्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि॥२२॥
सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपूरमेकमुव्यम्।
अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव वद्धमौनम्१॥२३॥
त्वं रक्षसा भीरु यतोऽपनीता तं मार्गमेताः कृपया लता मे।
अदर्शयन् वक्तुमशक्नुवत्यः शाखाभिरावजितपल्लवाभिः ॥२४॥
मृग्यश्च दर्भाकुरनियंपेक्षास्तवागतिज्ञं समबोधयन् माम्।
व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजोनि विलोचनानि॥२५॥
एतद् गिरेमल्यवतः पुरस्तादाविर्भवत्यम्वरलेखि शृङ्गम्।
नवं पयो यत्र घनर्मया च त्वविप्रयोगात्रु समं विसृष्टम् ॥२६॥
गन्धश्च धाराहतपल्वलानां कादम्बमर्पोद्गतकेसरं च।
स्निग्धाश्च केकाः शिखिनां बभूवुर्यस्मिन्नसह्यानि विना त्वया मे॥२७॥
पूर्वानुभूतं स्मरता च यत्र कम्पोत्तरं भीरु तवोपगूढम्।
गुहाविसारीण्यतिवाहितानि मया कथंचिद्: घनगजितानि ॥२८॥
असारसितंक्षितिबाष्पयोगान्मामक्षणोद् यत्र विभिन्नकोशैः।
बिडम्ब्यमाना नवकन्दलैस्ते विवाहधूमारुणलोचनश्रीः॥२९॥
उपान्तवानीर–वनोपगूढा-न्यालक्ष्यपारिप्लव–सारसानि।
दुरावतीर्णा पिवतीव खेदादमूनि पम्पासलिलानि दृष्टिः ॥३०॥
------------------------
१. चिन्तामणिमन्त्रगर्भ पद्यमित्यस्मद्गुरुपारम्परी, अड्यारस्थो हस्तलेखश्च।
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः