लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


अत्रावियुक्तानि रथाङ्गनाम्नामन्योन्यदत्तोत्पलकेसराणि।
द्वन्द्वानि दूराम्तरवतना ते मया प्रिये सस्पृहमीक्षितानि ॥३१॥

इमां तटाशोकलतां च तन्वीं स्तनाभिरामस्तबकाभिन म्राम्।
त्वत्प्राप्तिबुद्धया परिरब्धुकामः सौमित्रिणा साश्रुरहं निषिद्धः॥३२॥

अमूवमानान्तरलम्बिनीनां श्रुत्वा स्वनं काञ्चनकिङ्किणीनाम्।
प्रत्युव्रजन्तीव खमुत्पतन्त्यो गोदावरीसारसपङ्क्तयस्त्वाम् ॥३३॥

एषा त्वया पेशलमध्ययापि घटाम्बुसंवर्धितवालचूता।
प्रानन्दयत्युन्मुखकृष्णशारा दृष्टा चिरात् पञ्चवटी मनो मे॥३४॥

अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तम्॥३५॥

भ्रू - भेदमात्रेण पदान्मघोनः प्रभ्र शयां यो नहुषं चकार।
तस्याविलाम्भ:परिशुद्धिहेतोभमो मुनेः स्थानपरिग्रहोऽयम्॥३६॥

त्रेताग्निधूमाग्रमनिन्द्यकीर्तेस्तस्येदमाक्रान्त - विमान - मार्गम्।
घ्रात्वा हविर्गन्धि जोविमुक्तः समश्नुते मे लविमानमात्मा॥३७॥

एतन्मुनेमनिनि माण्डकर्णेः१ पञ्चाप्सरो नाम विहारवारि।
आभाति पर्यन्तवनं विदूरान्मेघान्तरालक्ष्यमिवेबुविम्वम्॥३८॥

पुरा स दर्भाङ्कुरमात्रवृत्तिश्चरन् मृगैः सार्धमृषिर्मघोना।
समाधिभीतेन किलोपनीतः पञ्चाप्सरोयौवनकूटबन्धम्॥३९॥

तस्यायमस्तहितसौधभाजः प्रसक्तसंगीतमृदङ्गघोषः।
वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिश्रुन्मुखराः करोति॥४०॥
-----------------------------
१. शातकर्णेः म.

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai