लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


हविर्भुजामेधवतां चतुर्णा मध्ये ललाटन्तपसप्तसप्तिः।
असौ तपस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः॥४१॥

अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि।
नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि॥४२॥

एषोऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावम्।
सभाजने मे भुजपूर्वबाहुः सव्येतरं प्राध्वमितः प्रयुङ्क्ते ॥४३॥

वार्चयमत्वात् प्रणति ममैर्ष कम्पेन किंचित् प्रतिगृह्य मूर्नः।
दृष्टि विमानव्यवधानमुक्तां पुनः सहस्रार्चिषि संनिधते॥४४॥

अदः शरण्यं शरभङ्गनाम्नस्तपोवनं पावनमाहिताग्नेः।
चिराय संतप्यं समिभिरग्नि यो मन्त्रपूतां तनुमप्यहौषीत् ॥४५॥।

छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेष्वमीषु।
तस्यातिथीनामधुना सपर्या स्थिता सुपुत्रेष्विव पादपेषु ॥४६॥

धारास्वनोदगारिदरीमुखोऽसौ. शृङ्गाग्रलग्नाम्बुद-वप्र-पङ्कः।
बध्नाति मे वन्धुरगात्रि चक्षुदृप्तः कुकुद्मानिव चित्रकूट:१ ॥४७॥

एषा प्रसन्नस्तिमितप्रर्वोहा सरिद् विदूरान्तरभावतन्वी।
मन्दाकिनी२ भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः॥४८॥

अयं सुजातोऽनुगिरं तमालः प्रवालमादाय सुगन्धि यस्य।
यवाङ्कुरापाण्डुकपोलशोभी भयावंतसः परिकल्पितस्ते॥४९॥

अनिग्रहत्रासविनीतसत्त्वमपुष्पलिङ्गात् फलवन्धिवृक्षम्।
वनं तपःसाधनमेतदत्रे विष्कृतोदग्रतरप्रभावम्॥५०॥
--------------------------
१-२. दण्डकारण्यान्तःपाती तन्नामा शिलोच्चयः, मन्दाकिनी चापि तत्र त्यैवेति केचित्।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book