भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
धनुर्भ तोऽप्यस्य दयाई भावमाख्यातमन्तःकरणैर्विशः।
विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः॥११॥
स कीचकैमरुतपूर्णरन्ध्र: कूजभिरापादितवंशकृत्यम्।
शुश्राव कुजेषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः॥१३॥
पृक्तस्तुषारैगरिनिर्झराणामनोकहाकम्पितपुष्पगन्धिः।
तमातपक्लाम्तमनातपत्रमा चारपूतं पवनः सिषेवे॥१२॥
शशाम वृष्टयापि विना दवाग्निरासीद् विशेषां फलपुष्पवृद्धिः।
ऊनं न सत्त्वेष्वधिको ववाधे तस्मिन् वनं गोप्तरि गाहमाने॥१४॥
संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम्।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च1 धेनुः॥१५॥
तां देवतापित्रतिथिक्रियार्थामन्वग्ययौ मध्यमलोकपालः।
बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद् विधिनोपपन्ना॥१६॥
स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबहिणानि।
ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन्॥१७।
पीनभारोद्वहनप्रयत्नाद् गृष्टिगुरुत्वाद् वपुषो नरेन्द्रः।
उभावलचक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम्॥१८॥
वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात्।
पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम्॥१९॥
पुरस्कृता वर्मनि पाथवेन प्रत्युद्गता पार्थिवधर्मपत्न्या।
तदन्तरे सा विरराज धेनुदिनक्षपामध्यगतेव सन्ध्या॥२०॥
--------------------------
१. प्रस्तुतोभयौपमा। तत्रापि धेनुः पूर्वप्रसङ्गागतेति दीपकमेवात्र युक्तम्।
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः