भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता।
प्रणम्य चानचे विशालमस्याः शृङ्गान्तरं द्वारमिवार्थसिद्धेः॥२१॥
वत्सोत्सुकापि स्तिमिता सपर्या प्रत्यग्रहीत् सेति ननन्दतुस्तौ।
भक्त्योपपन्नेषु हि तविधानां प्रसादचिह्नानि पुरःफलानि ॥२२॥
गुरोः सदारस्य निपीड्य पादौ समाप्य सान्ध्यं च विधि दिलीपः।
दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुनिषण्णाम्॥२३॥
तामन्तिकन्यस्तवलिप्रदीपमन्वास्य गोप्ता गृहिणीसहायः।
क्रमेण सुप्तामनु संविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत्१ ॥२४॥
इत्थं व्रतं धारयंतः प्रजार्थं समं महिष्या महनीयकीर्तेः।
सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दोनोद्धरणोचितस्य॥२५॥
अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः।
गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश॥२६॥
सा दुष्प्रधर्षा मनसापि हिंस्ररित्यद्रिशोभाप्रहितेक्षणेन।
अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष॥२७॥
तदीयमाक्रन्दितमार्तसाधो-हानिवद्ध-प्रतिशब्ददीर्घम्।
रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम्॥२८॥
स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श।
अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम्॥२९॥
ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः।
जाताभिषङ्गो नृपतिनिषङ्गादुद्धर्तुमैच्छत् प्रसभोद्धतारिः ॥३०॥
-----------------------------
१. नन्दिनी हि विद्या। सा च बुद्धिः। बुद्धिहि पूर्वमेव जागत्ति, पश्चात् पुमान्।
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः