भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
वामेतरस्तस्य करः प्रहर्तुर्नखप्रभाभूषितकङ्कपत्रे।
सक्ताङ्गुलिः सायकपुड्स एव चित्रापितारम्भ इवावतस्थे॥३१॥
बाहु-प्रतिष्टम्भ-विवृद्ध--मन्युरभ्यर्णमागस्कृतमस्पृशभिः।
राजा , स्वतेजोभिरदह्यतान्तभॊगीव मन्त्रौषधिरुद्धवीर्यः ॥३२॥
तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम्।
विस्माययन् विस्मितमात्मवृत्तौ सिहोरुसत्त्वं निजगाद सिंहः॥३३॥।
अलं महीपाल तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात्।
न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूच्र्छति मारुतस्य॥३४॥
कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम्।
अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम्॥३५॥
अमं पुरः पश्यसि देवदारु१ पुत्रीकृतोऽसौ वृषभध्वजेन।
यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः॥३६॥
कण्डूयमानेन कट कदाचिद् वन्यद्विपेनोन्मथिता त्वगस्य।
अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः॥३७॥
तदाप्रभृत्येव वनद्विपानां त्रासार्थमस्मिन्नहमद्रिकुक्षौ।
व्यापारितः शूलभृता विधाय सिहत्वमङ्कागतसत्त्ववृत्ति॥३८॥
तस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण।
उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधैव॥३९॥
स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान् दशितशिष्यभक्तिः।
शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद् यशः शस्त्रभृतां क्षिणोति॥४०॥
------------------------------
१. अनेन कुमारसंभवं प्रागरच्यतेत्यनुमीयेत, तत्र ५।१४ पद्ये ‘गुहोऽपियेषामि'-त्याद्युक्तेः।
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः