लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


जलानि या तीरनिखातयूपा वहत्ययोध्यामनु राजधानीम्।
तुरङ्गमेधावभृथावतीरिक्ष्वाकुभिः पुण्यतरीकृतानि॥६१॥

यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवधतानाम्।
सामान्यधात्रीमिव मानसं मे संभावयत्युत्तरकोसलानाम्॥६२॥

सेयं मदीया जननीव तेन मान्येन राज्ञा सरयूर्वियुक्ता।
दूरे वसन्तं शिशिरानिलै तरङ्गहस्तैरुपगुहतीव॥६३॥

विरक्तसंध्याकपिशं पुरस्ताद् यतो रजः पार्थिवमुज्जिहीते।
शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः॥६४॥

अद्धा श्रियं पालितसंगराय प्रत्यर्पयिष्यत्यनघां स साधुः।
हत्वा निवृत्ताय मृधे खरादीन् संरक्षितां त्वामिव लक्ष्मणो मे॥६५॥

असौ पुरस्कृत्य गुरुं पदातिः पश्चादवस्थापितवाहिनीकः।
वृद्धेरमात्यैः सह चीरवासा मामर्थ्यपाणिर्भरतोऽभ्युपैति॥६६॥

पित्रा विसृष्टां मदपेक्षया यः श्रियं युवाप्यङ्गतामभोक्ता।
इयन्ति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारम्॥६७॥

एतावदुक्तवति दशरथौ तदीया-
मिच्छां विमानमधिदेवतया विदित्वा।
ज्योतिष्पथावततार सविस्मयाभि
रुद्वीक्षितं प्रकृतिभिर्भरतानुगाभि: ॥६८॥

तस्मात् पुरःसरविभीषणदशितेन
सेवाविचक्षणहरीश्वरदत्तहस्तः।
यानादवातरददूरमहीतलेन।
मार्गेण भङ्गिरचितस्फटिकेन रामः॥६९॥

इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य
स भ्रातरं भरतमर्थ्यपरिग्रहान्ते।
पर्यश्रुरस्वजत मूर्धनि, चोपजघ्रौ
तद्भक्त्यपोढपितृराज्यमहाभिषेके॥७०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book