भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
श्मश्रुप्रवृद्धिजनितानन विक्रियाँश्च।
प्लक्षान् प्ररोहजटिलानिव मन्त्रिवृद्धान्।
अन्वग्रहीत् प्रणमतः शुभदृष्टिपाते-
वतनुयोगमधुराक्षरया च वाचा॥७१॥
दुजतबन्धुरयमृक्षहरीश्वरो मे
पौलस्त्य एष समरेषु पुरः प्रहर्ता।
इत्यादृतेन कथितौ रघुनन्दनेन।
व्युत्क्रम्य लक्ष्मणमुभौ भरतो ववन्दे ॥७२॥
सौमित्रिणा तदनु संससृजे स चैन
मुत्थाप्य नम्रशिरसं१ भृशमालिलिङ्ग।
रूढेन्द्रजित्प्रहरणव्रणकर्कशेन।
क्लिश्नन्निवास्य भुजमध्यमुरःस्थलेन॥७३॥
रामाज्ञया हरिचमूपतयस्तदानीं।
कृत्वा मनुष्यवपुरारुरुहुर्गजेन्द्रान्।
येषु क्षत्सु बहुधा मदवारिधाराः।
शैलाधिरोहणसुखान्युपलेभिरे ते२॥७४॥
सानुप्लवः प्रभुरपि क्षणदाचराणां
भेजे रथान् दशरथप्रभवानुशिष्टः।
मायाविकल्पचितैरपि ये तदीयै
ने स्यन्दनैस्तुलितकृत्रिमभक्तिशोभाः॥७५॥
भूयस्ततो रघुपतिविलसत्पताक
मध्यास्त कामगति सावरजो विमानम्।
दोषातनं बुधबृहस्पतियोगदृश्य
स्तारापतिस्तरलविद्युदिवाभ्रवृन्दम्॥७६॥
तत्रेश्वरेण जगतां प्रलयादिवोर्वी
वर्षात्ययेन रुचमभ्रघनादिवेन्दोः।
रामेण मैथिलसुतां दशकण्ठकृच्छात्।
प्रत्युद्धृतां धृतिमतीं भरतो ववन्दे॥७७॥
लङ्गेश्वरप्रणतिभङ्गदृढव्रतं तद्
वन्द्यं युगं चरणयोर्जनकात्मजायाः।
ज्येष्ठानुवृत्तिजटिलं च शिरोऽस्य साधो
रन्योन्यपावनमभूदुभयं समेत्य॥७८॥
क्रोशाधं प्रकृतिपुरःसरेण गत्वा
काकुत्स्थः स्तिमितजवेन पुष्पकेण।
शत्रघ्नप्रतिविहितोपकार्यमार्यः
साकेतोपवनमुदारमध्युवास॥७९॥
॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये साकेतप्रत्यागमनो नाम त्रयोदशः सर्गः॥
----------------------------
१. एतेन भरतस्य लक्ष्मणानुजत्वमिति केषांचिदुत्प्रेक्षा।
२. वि० ४।२५।१४
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः