लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


तम श्रु नेत्रावरणं प्रमज्य सीता विलापाद् विरता ववन्दे।
तस्यै मुनिर्दोहदलिङ्गदर्शी दाश्वान् पुत्राशिषमित्युवाच॥७१॥

जाने विसृष्टां प्रणिधानतस्त्वां मिथ्यापवादक्षुभितेन भत्र।
तन्मा व्यथिष्ठा विषयान्तरस्थं प्राप्तासि वैदेहि पितुनिकेतम् ॥७२॥

उत्खातलोकत्रयकण्टकेऽपि सत्यप्रतिज्ञेऽप्यविकत्थनेऽपि।
त्वां प्रत्यकस्मात् कलुषप्रवृत्तावस्त्येव मन्युर्भरताग्रजे मे॥७३॥

तवोरुकीतः श्वशुरः सखा मे सतां १भयच्छेदकरः पिता ते।
धुरि स्थिता त्वं पतिदेवतानां किं तन्न येनासि ममानुकम्प्या॥७४॥

तपस्विसंसर्गविनीतसत्त्वे तपोवने वीतभयावसास्मिन्।
इतो भविष्यत्यनघप्रसूतेरपत्यसंस्कारमयो विधिस्ते॥ ७५॥

अशून्यतीरां मुनिसंनिवेशैस्तमोपहन्त्रीं तमसां वगाह्य।
तत्सैकतोत्सङ्गबलिक्रियाभिः सपत्स्यते ते मनसः प्रसादः॥७६॥

पुष्पं फलं चार्तवमाहरन्त्यो बीजं च बालेयमकृष्टरोहि।
विनोदयिष्यन्ति नवाभिषङ्गामुदारवाचो मुनिकन्यकास्त्वाम्॥७७॥

पयोघटेराश्रमबालवृक्षान्। संवर्धयन्ती स्वबलानुरूपः।
असंशयं प्राक् तनयोपपत्तेः स्तनन्धयप्रोतिमवाप्स्यसि त्वम्॥७८॥

अनग्रहप्रत्यभिनन्दिनीं तां वाल्मीकिरादाय दयार्द्रचेताः।
सायं मृगाध्यासितवेदिपाश्र्व स्वमाश्रमं शान्तमृगं निनाय॥७९॥

तामर्पयामास च शोकदीनां तदागमप्रीतिषु तापसीषु।
निविष्टसारां पितृभिहिमांशोरन्त्यां कलां दर्श इवौषधीषु॥८०॥
----------------------------
१. भवो० म.,'भव० हे.। भयेन भवभयमपि नो न गृह्येत।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book