| 
			 भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
  | 
        
		  
		  
		  
          
			 
			  | 
     ||||||
 वाच्यस्त्वया मवचनात् स राजा वह्नौ विशुद्धामपि यत् समक्षम्।
 मां लोकेवादश्रवणदहासीः श्रुतस्य किं तत् सदृशं कुलस्य॥६१॥ 
 
 कल्याणबुद्धेरथवा तवायं न कामचारो मयि शङ्कनीयः।
 ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः ॥६२॥ 
 
 उपस्थितां पूर्वमपास्य लक्ष्मीं वनं मया सार्धमसि प्रपन्नः। 
 तदास्पदं प्राप्य तयातिरोषात् सोढास्मि न त्वद्भवने वसन्ती॥६३॥ 
 
 निशाचरोपप्लुतभतृकाणां तपस्विनीनां भवतः प्रसादात्। 
 भूत्वा शरण्या शरणार्थमन्यं कथं प्रपत्स्ये त्वयि दोप्यमाने॥६४॥ 
 
 किंवा तवात्यन्तवियोगपोधे कुर्यामुपेक्षां हतजीवितेऽस्मिन्। 
 स्याद् रक्षणीयं यदि मे न तेजस्त्वदीयमन्तर्गतमन्तरायः ॥६५॥ 
 
 साऽहं तपः सूर्यनिविष्टदृष्टिरू प्रसूतेश्वरितुं यतिष्ये। 
 भूयो यथा मे जननान्तरेऽपि त्वमेव भर्ता न च विप्रयोगः॥६६॥ 
 
 नृपस्य वर्णाश्रमपालनं यत् स एवं धर्मो मनुना प्रणीतः।
 निर्वासिताप्येवमतस्त्वयाहं तपस्विसामान्यमवेक्षणीय॥।६७॥ 
 
 तथेति तस्याः प्रतिगृह्य वाचं रामानुजे दृष्टिपथं व्यतीते। 
 सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः॥६८॥ 
 
 नृत्तं मयूराः कुसुमानि वृक्षा दर्भानुपात्तान् विजहुर्हरण्यः। 
 तस्याः प्रपन्न समदुःखभावमत्यन्तमासीद् रुदितं वनेऽपि१॥६९॥
 
 तामभ्यगच्छद् रुदितानुसारी कवि: कुशेमाहरणाय यातः। 
 निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य शोकः॥७०॥ 
 -----------------------
 १. शा ४।११
 			
						
  | 
				|||||
- प्रथमः सर्गः
 - द्वितीयः सर्गः
 - तृतीयः सर्गः
 - चतुर्थः सर्गः
 - पञ्चमः सर्गः
 - षष्ठः सर्गः
 - सप्तमः सर्गः
 - अष्टमः सर्गः
 - नवमः सर्गः
 - दशमः सर्गः
 - एकादशः सर्गः
 - द्वादशः सर्गः
 - त्रयोदशः सर्गः
 

 
		 






			 

