भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
स तावाख्याय रामाय मैथिलेयौ तदात्मजौ।
कविः कारुणिको वव्र सीतायाः संपरिग्रहम्॥७१॥
तात शुद्धा समक्षं नः स्नुषा ते जातवेदसि।
दौरात्म्याद् रक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः॥७२॥
ताः स्वचारित्रमुद्दिश्य प्रत्याययतु मैथिली।
ततः पुत्रवतीमेनां प्रतिपत्स्ये त्वदाज्ञया॥७३॥
इति प्रतिश्रुते राज्ञा जानकीमाश्रमान्मुनिः।
शिष्यैरानाययामास स्वसिद्धि नियमेरिव॥७४॥
अन्येद्य रथ काकुत्स्थः संनिपात्य पुरौकसः।
कविमाह्वाययामास प्रस्तुतप्रतिपत्तये॥७५॥
स्वरसंस्कारवत्यासौ पुत्राभ्यामथ सीतया।
ऋचेवोदचषं सूर्य रामं मुनिरुपस्थितः ॥७६॥
काषायपरिवीतेन , स्वपदार्पितचक्षुषा।
अन्वमीयत शुद्धेति शान्तेन वपुषैव सा ॥७७॥
जनास्तदालोकपथात् प्रतिसंहृतचक्षुषः।
तस्थुस्तेऽवाङ्मुखाः सर्वे फलिता इव शालयः॥७८॥
तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः।
कुरु निःसंशयं वत्से स्ववृत्ते लोकमित्यशात्॥७९॥
अथ वाल्मीकि शिष्येण पुण्यमावजितं पयः।
आचम्योदीरयामास सीता सत्यां सरस्वतीम्॥८०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः