भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
वाङ्मनःकर्मभिः पत्यौ व्यभिचारो यथा न मे।
तथा विश्वम्भरे देवि मामन्तर्धातुमर्हसि॥८१॥
एवमुक्त तया साध्व्या रन्ध्रात् सद्योभवाद् भुवः।
शातह्रदमिव ज्योतिः प्रभामण्डलमुद्ययौ॥८२॥
तत्र नाग - फणोत्क्षिप्त - सिंहासन - निषेदुषी।
समुद्ररसना साक्षात् प्रादुरासीद् वसुन्धरा ॥८३॥
सा सीतामङमारोप्य भतृ प्रणिहितेक्षणाम्।
मा मेति व्याहत्येव तस्मिन् पातालमभ्यगात्॥८४॥
धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिणः।
गुरुविधिबलापेक्षी शमयामास धन्विनः॥८५!॥
ऋषीन् विसृज्य यज्ञान्ते सुहृदश्रु-पुरस्कृतान्।
रामः सीतागतं स्नेहं निदधे तदपत्ययोः ॥८६॥
युधाजितश्च संदेशात् स देशं सिन्धुनामकम्।
ददौ दत्तप्रभावाय भरताय भृतप्रजः॥८७॥
भरतस्तत्र गन्धर्वान् युधि निजित्य केवलम्।
आतोद्यं ग्राहयामास समत्याजयदायुधम्॥८८॥
स तक्षपुष्कलौ पुत्रौ राजधान्यास्तदाख्ययोः।
अभिषिच्याभिषेकाहीं रामान्तिकमगात् पुनः॥८९॥
अङ्गदं. चन्द्रकेतुं च लक्ष्मणोऽप्यात्मसंभवौ।
शासनाद् रघुनाथस्य चक्रे कारापथेश्वरौ ॥९०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः