भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
इत्यारोपितपुत्रास्ते जननीनां जनेश्वराः।
भर्तृ लोकप्रपन्नानां निवापान् विदधुः क्रमात् ॥९१॥
उपेत्य मुनिवेषोऽथ कालः प्रोवाच राघवम्।
रहः-संवादिनौ पश्येदावां यस्तं त्यजेरिति॥९२॥
तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः।
आचख्यौ दिवमध्यास्वशासनात् परमेष्ठिनः॥६३॥
विद्वानपि तयोःस्थः समयं लक्ष्मणोऽभिनत्।
भीतो दुर्वाससः शापात् रामसंदर्शनार्थिनः ॥९४॥
स गत्वा सरयूतीरं देहत्यागेन योगवित्।
चकारावितथा भ्रातुः प्रतिज्ञां पूर्वजन्मनः॥५॥
तस्मिन्नात्मचतुर्भागे प्राङ्नाकमधितस्थुषि।
राघवः शिथिलं तस्थौ भुवि धर्मस्त्रिपादिव ॥९६॥
स निवेश्य कुशावत्यां रिपुनागाङ्कुशं कुशम्।
शरावत्यां सतां सूक्त जनिताश्रुलवं लवम् ॥९७॥
उदक् प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः।
अन्वितः पतिवात्सल्याद् गृहवर्जमयोध्यया ॥९८॥
जगृहस्तस्य चितज्ञाः पदवीं हरिराक्षसाः।
कदम्बमुकुलस्थूलैरभिवृष्टां प्रजाश्रुभिः ॥९९॥
उपस्थितविमानेन तेन भक्तानुकम्पिना।
चक्रे त्रिदिवनिःश्रेणिः सरयूरनुयायिनाम्॥१००॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः