लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


आपिञ्जरा वद्धरजःकणत्वान्मजयुदारा शुशुभेऽर्जु नस्य।
दग्ध्वापि देहं गिरिशेन रोषात् खण्डीकृता ज्येव मनोभवस्य॥५१॥

मनोज्ञगन्धं सहकारभङ्गं पुराणशीधं नवपाटलं च।
संबध्नता कामिजनेषु दोषाः सर्वे निदाघावधिना प्रमृष्टाः॥५२॥

जनस्य तस्मिन् समये विगाढे बभूवतुर् द्वौ सविशेषकान्तौ।
तापापनोदक्षमपादसेवौ स चोदयस्थो नृपतिः शशी च॥५३॥

अथोमिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः।
विहर्तुमिच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे वभूव॥५४॥

स तीरभूमौ विहितोपकार्यामानायिभिस्तामपकृष्टनक्राम्।
विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः॥५५॥

सा तीरसोपानपथावतारादन्योन्यकेयूरविघट्टिनीभिः।
सनूपुरक्षोभपदाभिरासीदुद्द्वग्नहंसा सरिदङ्गनाभिः ॥५६॥

परस्पराभ्युक्षणतत्पराणां तासां नृपो मज्जनरागदर्शी।
नौसंश्रयः पार्श्वगतां किरातीमुपात्तवालव्यजन बभाषे॥५७॥

पश्यावरोधैः शतशो मदीयेविगाह्यमानो गलिताङ्गरागैः।
सन्ध्योदयः साभ्र इवेष वर्णं पुष्यत्यनेक सरयूप्रवाहः ॥५८॥

विलुप्तमन्तःपुरसुन्दरीणां यदजनं नौलुलिताभिरभिः।
तद् बध्नतीभिर्मदरागशोभां विलोचनेषु प्रतिमुक्तमासाम्॥५९॥

एता गुरुश्रोणिपयोधरत्वादात्मानमुद्वोढुमशक्नुवत्यः।
गाढाङ्गदैर्वाहुभिरप्सु बालाः क्लेशोत्तरं रागवशात् प्लवन्ते ॥६०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book