लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनाम्।
पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलाँश्छलयन्ति मीनान्॥६१॥

आसां जलास्फालनतत्पराणां मुक्ताफलस्पधषु सीकरेषु।
पयोधरोत्सपषु शीर्यमाण: संलक्ष्यते न च्छिद्रोऽपि हारः॥६२॥

आवर्तशोभा नतनाभिकान्तेर्भङ्गयो ध्रुवां द्वन्द्वचराः स्तनानाम्।
जातानि रूपवयवोपमानान्यदूरवर्ती नि विलासिनीनाम् ॥६३॥

तीरस्थलीवहिभिरुत्कलापैः प्रस्निग्धकेकैरभिनन्द्यमानम्।
श्रोत्रेषु संमूच्र्छति रक्तमासां गीतानुगं वारिमृदङ्गवाद्यम्॥६४॥

संदष्टवस्त्रेष्वबलानितम्बेष्विन्दु - प्रकाशान्तरितोडतुल्याः।
अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रसनाकलापाः ॥६५॥

एताः करोत्पीडितवारिधारा दपत् सखीभिर्वदनेषु सिक्ताः।
वक्रेतरारलकैस्तरुण्यश्चूर्णरुणान् वारिलवान् वमन्ति॥६६॥

उद्बन्धकेशश्च्युतपत्त्रलेखो विश्लेषिमुक्ताफलपत्त्रवेष्टः।
मनोज्ञ एवं प्रमदामुखानामम्भोविहाराकुलितोऽपि वेषः॥६७॥

स नौविमानादवतीर्य रेमे विलोलहारः सह ताभिरप्सु।
स्कन्धावलग्नोद्धृतपद्मिनीकः करेणुभिर्वन्य इव द्विपेन्द्रः॥६८॥

ततो नृपेणानुगताः स्त्रियस्ता भ्राजिष्णुना सातिशयं विरेजुः।
प्रागेव मुक्ता नयनाभिरामाः प्राप्येन्द्रनील किमुतोन्मयूखम्॥६९॥

वर्णोदकैः काञ्चनशृङ्गमुक्त स्तमायताक्ष्यः प्रणयादसिञ्चन्।
तथागत: सोऽतितरां बभासे सधातुनिष्यन्द इवाद्रिराजः ॥७०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book