लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


तेनावरोधप्रमदासखेन विगाहमानेन सरिद्वरां ताम्।
आकाशगङ्गारतिरप्सरोभिवृ तो मरुत्वाननुयातलीलः॥७१॥

यत् कुम्भयोनेरधिगम्य रामः कुशाय राज्येन समं दिदेश।
तदस्य जैत्राभरणं विहर्तुरज्ञातपातं सलिले ममज्ज॥७२॥

स्नात्वा यथाकाममसौ सदारस्तीरोपकाय गतमात्र एव।
दिव्येन शून्यं वलयेन बाहु१मुपोढनेपथ्यविधिर्ददर्श॥७३॥

जयश्रियः संवननं यतस्तदामुक्तपूर्वं गुरुणा च यस्मात्।
सेहेऽस्य न भ्र शमतो न लोभात् स तुल्यपुष्पाभरणो हि धीरः॥७४॥

ततः समाज्ञापयदाशु सर्वानानायिनस्तविचये नदीष्णान्।
वन्ध्यश्रमास्ते सरयूं विगाह्य तमूचुरम्लानमुखप्रसादाः॥७५॥

कृतः प्रयत्नो न च देव लब्धं मग्नं पयस्याभरणोत्तमं ते।
नागेन लोल्यात् कुमुदेन नूनमुपातमन्तर्हदवासिना तत्॥७६॥

ततः स कृत्वा धनुराततज्यं धनुर्धरः कोपविलोहिताक्षः।
गरुत्मतं, तीरगतस्तरस्वी भुजङ्गनाशाय समाददेऽस्त्रम्॥७७॥

तस्मिन् ह्रदः संहितमात्र एवं क्षोभात् समाविद्धतरङ्गहस्तः।
रोधांसि निघ्नन्नवपातमग्नः करीव वन्यः परुषं ररास॥७८॥

तस्मात् समुद्रादिव मथ्यमानादुवृत्तनक्रात् सहसोन्मज्ज।
लक्ष्म्येव साधं सुरराजवृक्षः कन्या, पुरस्कृत्य भुजङ्गराजः॥७९॥

विभूषणप्रत्युपहारहस्तमुपस्थितं वीक्ष्य विशांपतिस्तम्।
सौपर्णमस्त्रं प्रतिसंजहार प्रहेष्वनिर्बन्धरुषो हि सन्तः॥८०॥
--------------------
१. आद्यकर्मणि क्तः। ०मपोढ० म.

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book