भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
|
नदभिः स्निग्धगम्भीरं तूर्येराहतपुष्करैः।
अन्वमीयत कल्याणं तस्याविच्छिन्नसंतति॥११॥
दूर्वायवाङकुरप्लक्ष - त्वगभिन्नपुटोत्तरान्।
ज्ञातिवृद्धेः प्रयुक्तान् स भेजे नीराजनाविधीन्॥१२॥
पुरोहितपुरोगास्तं जिष्णु जैत्रैरथर्वभिः।
उपचक्रमिरे पूर्वमभिषेक द्विजातयः ॥१३॥
तस्यौघमहती मूनि निपतन्ती व्यरोचत।
सशब्दमभिषेकश्रीङ्ग व त्रिपुरद्विषः॥१४॥
स्तूयमानः क्षणे तस्मिन्नलक्ष्यत स वन्दिभिः।
प्रवृद्ध इव पर्जन्यः सारङ्ग रभिनन्दितः॥१५॥
तस्य सन्मन्त्रपूताभिः स्नानमभिः प्रतीच्छतः।
ववृधे वैद्युतस्याग्नेवृष्टि सेकादिव द्युतिः॥१६॥
स तावदभिषेकान्ते स्नातकेभ्यो ददौ वसु।
यावतैषां समाप्येरन् यज्ञाः पर्याप्तदक्षिणाः ॥१७॥
ते प्रीतमनसस्तस्मै यामाशिषमुदैरयन्।
सा तस्य कर्मनिवृतैर्दूरं पश्चात्कृता फलैः॥१८॥
वन्धच्छेदं स वद्धानां वधाहणामवध्यताम्।
धुर्याणां च धुरो मोक्षमदोहं चादिशद् गवाम्॥१9॥
क्रीडापतत्रिणोऽप्यस्य पञ्जरस्था: शुकादयः।
लब्धमोक्षास्तदादेशाद् यथेष्टगतयोऽभवन्॥२०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः