भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
|
ततः कक्ष्यान्तरन्यस्तं गजदन्तासनं शुचि।
सोत्तरच्छदमध्यास्त नेपथ्यग्रहणाय सः॥२१॥
तं धूपाश्यानकेशान्तं तोयनिणिक्तपाणयः।
आकल्पसाधनेस्तैस्तैरुपसेदुः प्रसाधकाः॥२२॥
तेऽस्य मुक्तागुणोन्नद्धं मौलिमन्तर्गतस्रजम्।
प्रत्यूपुः पद्मरागेण प्रभामण्डलशोभिना॥२३॥
चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना।
समापय्य ततश्चक्रुः पत्रं विन्यस्तरोचनम्॥२४॥
आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान्।
आसीदतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः॥२५॥
नेपथ्यदशनश्छाया तस्यादर्थे। हिरण्मये।
विरराजोदिते सूर्ये मेरौ कल्पतरोरिव,॥२६॥
स राजककुदव्यग्रपाणिभिः पाश्र्ववर्तिभिः।
ययावुदीरितालोकः सुधर्मानवमां सभाम्॥२७॥।
वितानसहितं तत्र भेजे पैतृकमासनम्।
चूडामणिभिरुद्धृष्टपादपीठे महीक्षिताम्॥२८॥
शुशुभे तेन चक्रान्तं मङ्गलायतनं महत्।
श्रीवत्सलक्षणं वक्षः कौस्तुभेनेव केशवम्॥२९॥
वभौ भूयः कुमारत्वादाधिराज्यमवाप्य सः।
रेखाभावादुपारूढः सामग्रचमिव चन्द्रमाः॥३०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः