भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
|
प्रवृद्धौ हीयते चन्द्रः समुद्रोऽपि तथाविधः।
स तु तत्समवृद्धिश्च न चाऽभूत् ताविव क्षयी॥७१॥
सन्तस्तस्याभिगमनादत्यर्थं उदधेरिव जीमूताः
महतः कृशाः प्रापुर्दातृत्वमथिनः ॥३२॥
स्तूयमानः स जिह्राय स्तुत्यमेव समाचरन्।
तथापि ववृधे तस्य तत्कारि-द्वेषिणो यशः॥७३॥
दुरितं दर्शनेन सँस्तत्त्वार्थेन नुस्तमः।
प्रजाः स्वतन्त्रयाञ्चक्रे शश्वत् सूर्य इवोदितः॥७४॥
इन्दोरगतयः पद्मे सूर्यस्य कुमुदेऽशवः।
गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरम्॥७५॥
पराभिसंधानपरं यद्यप्यस्य विचेष्टितम्।
जिगीषोरश्वमेधाय धम्र्यमेव बभूव तत्॥७६॥
एवमुद्यन् प्रभावेण शास्त्रनिर्दिष्टवर्मना।
वृषेव देवो देवानां राज्ञां राजा बभूव सः ॥७७॥
पञ्चमं लोकपालानामूचुः साधर्म्ययोगतः।
भूतानां महतां षष्ठमष्टमं कुलभूभृताम्॥७८॥
दूरापवजितच्छत्रैस्तस्याज्ञां१ शासनापिताम्।
दधुः शिरोभिभू पाला२ शेषां पौरन्दरीमिव ॥७६॥
ऋत्विजः स तथाऽऽनर्च दक्षिणाभिर्महाऋतौ।
यथा साधरणीभूतं नामास्य धनदस्य च॥८०॥
इन्द्राद् वृष्टिर्नियमितगदोद्रेकवृत्तिर्यमोऽभूद्
यादोनाथः शिवजलपथः कर्मणे नौचराणाम्।
पूर्वापेक्षी तदनु विदघे कोषवृद्धि कुवेर
स्तस्मिन् दण्डोपनतचरितं भेजिरे लोकपालाः॥८१॥
॥इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये अतिथिवर्णनो नाम सप्तदशः सर्गः॥
----------------------------------
१. शासनं ताम्रपत्रादिषु दानाद्यादेशः।
२. प्रसाददतां मालाम् द्र० कु० ३।२२, शा० ७२, देवाः म.।
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः