भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
|
परकर्मापहः सोऽभूदुद्यतः स्वेषु कर्मसु।
आवृणोदात्मनो रन्ध्र रन्ध्रषु प्रहरन् रिपून्॥६१॥
पित्रा संवधितो नित्यं कृतास्त्रः सांपरायिकः।
तस्य दण्डवतो दण्डः स्वदेहान्न व्यशिष्यत॥६२॥
सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः।
स चकर्ष परस्मात् तदयस्कान्त इवायसम्॥६३॥
वापोष्विव स्रवन्तीषु वनेषुपवनेष्विव।
सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवादिषु॥६४॥
तपो रक्षन् स विघ्नेभ्यस्तस्करेभ्यश्च संपदः।
यथास्वमाश्रमैश्चक्रे वर्णैरपि षडंशभाक्॥६५॥
खनिभिः सुषुवे१ रत्नं क्षेत्रः, सस्यं वनैर्गजन्।
दिदेश वेतनं तस्मै रक्षासदृशमेव भूः॥६६॥
स गुणानां बलानां च षण्णां षण्मुखविक्रमः।
बभूव विनियोगज्ञः साधनीयेषु वस्तुषु ॥६७॥
इति क्रमात् प्रयुञ्जानो राजनीति चतुविधाम्।
आ तीर्थादप्रतीघातं स तस्याः फलमानशे॥६८॥
कूटयुद्धविधिज्ञेऽपि तस्मिन् सन्मार्गयोधिनि।
भेजेऽभिसारिकावृत्ति जयश्रीर्वीरगामिनी२॥६९॥
प्रायः प्रतापभग्नत्वादरीणां तस्य दुर्लभः।
रणो गन्धद्विपस्येव गन्धभिन्नान्यदन्तिनः॥७०॥
-------------------------------------
१. भूरत्र कर्ता.
२. ०कामिणी. हे.
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः