भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
|
परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परैः।
सोऽपसपँर्जजागार यथाकालं स्वपन्नपि ॥५१॥
दुर्गाणि दुर्ग्रहाण्यासँस्तस्य रोद्धरपि द्विषाम्।
न हि सिंहो गजास्कन्दी भयाद् गिरिगुहाशयः॥५२॥
भव्यमुख्याः समारम्भाः प्रत्यवेक्ष्या निरत्ययाः।
गर्भशालिसधर्माणस्तस्य गूढ विपेचिरे॥५३॥
अपर्थन प्रववृते न जातूपचितोऽपि सः।
वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः॥५४॥
कामं प्रकृतिवैराग्यं सद्यः शमयितं क्षमः।
यस्य कार्यः प्रतीकारः स तन्नैवोदपादयत्॥५५॥
शक्येष्वेवाभवद् यात्रा तस्य शक्तिमतः सतः।
समीरणसहायोऽपि नाम्भःप्रार्थी दवानलः॥५६॥
न धर्ममर्थकामाभ्यां ववीधे न च तेन तौ।
नार्थं कामेन कामं वा सोऽर्थेन सदृश स्त्रिषु॥५७॥
हीनान्यनुपकर्तृ णि प्रवृद्धानि विकुर्वते।
तेन मध्यमशक्तीनिमित्राणि स्थापितान्यतः॥५८॥
परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम्।
ययावेभिर्वलिष्ठश्चेत् परस्मादास्त सोऽन्यथा॥५९॥
कोशेनाश्रयणीयत्वमिति तस्यार्थसंग्रहः।
अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते॥६०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः