लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


तस्मिन विधानातिशये विधातुः कन्यामये नेत्रशतैकलक्ष्ये।
निपेतुरन्त:करणैर्नरेन्द्रा · देहैः स्थिताः केवलमासनेषु॥११॥

तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः।
प्रवालचेष्टा१ इव पादपानां शृङ्गारचेष्टा विविधा बभूवुः॥१२॥

कश्चित् कराभ्यामुपगूढनाल मालोलपत्राभिहतद्विरेफम्।
रजोभिरन्तःपरिवेषवन्धि लीलारविन्दं भ्रमयाञ्चकार॥१३॥

विस्रस्तभंसादपरो विलासी रत्नानुविद्धाङ्गदकोटिलग्नम्।
प्रालम्वमुत्कृष्य यथावकाशं निनाय साचीकृतचारुवक्त्रः॥१४॥

आकुञ्चिताग्राङगुलिना ततोऽन्यः किंचित्समावजितनेत्रशोभः।
तिर्यग् विसंसपनखप्रभेण पादेन हैमं विलिलेख पीठम् ॥१५॥

निवेश्य वामं . भुजमासनाचें तत्संनिवेशदधिकोन्नतांसः।
कश्चिद् विवृत्तत्रिकभिन्नहारः सुहृत्समाभाषणतत्परोऽभूत्॥१६॥

विलासिनीविभ्रमदन्तपत्रमापाण्डुरं केतकबर्हमन्यः।
प्रियानितम्बोचितसंनिवेशैवपाटयामास युवा नखाग्रेः॥१७॥

कुशेशयाताम्रतलेन कश्चित् करेण रेखाध्वजलाञ्छनेन।
रत्नाङ्गुलीयप्रभयानुविद्धानुदोरयामास सलीलमक्षान्॥१८॥

कश्चिद् यथाभागमवस्थितेऽपि स्वसंनिवेशाद् व्यतिलङ्घिनीव।
वज्रांशुगर्भाङ्गुलिरन्ध्रमेकं व्यापारयामास करं, किरीटे॥१९॥
--------------------
१. शोभा म.

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai