भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
[ १ ]
ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी।
प्राक् संनिकषं मगधेश्वरस्य नीत्वा कुमारीमवदत् सुनन्दा ॥२०॥
असौ शरण्यः शरणोन्मुखानामगाधसत्त्वो मगधप्रतिष्ठः।
राजा प्रजारजनलब्धवर्णः परन्तपो नाम यथार्थनामा॥२१॥
कामं नृपाः सन्तु सहस्रशोऽन्ये राजन्वतीं त्वाहुरनेन भूमिम्।
नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः॥२२॥
क्रियाप्रवन्धा-दयमव्वराणा--मजस्रमाहूत-सहस्रनेत्रः।
शच्याश्चिरं पाण्डुकपोललम्वान् मन्दारशून्यानलकाँश्चकार॥२३॥
अनेन चेदिच्छसि गृह्यमाणं पाणि वरेण्येन कुरु प्रवेशे।
प्रासादवातायनसंस्थितानां नेत्रोत्सवं पुष्पपुराङ्गनानाम्॥२४॥
एवं तयोक्ते तमवेक्ष्य किंचिद्-विस्रसिदूर्वाङ्कमधूकमला।
ऋजुप्रणामक्रिययैव तन्वी प्रत्यादिदेशैनमभाषमाणा॥२५॥
[ २ ]
तां सैव वेत्रग्रहणे नियुक्ती राजान्तरं राजसुतां निनाय।
समीरणोत्थेवं तरङ्गलेखा पद्मान्तर मानसराजहंसोम्॥२६॥
जगाद चैनामयमङ्गनाथो सुराङ्गनाप्रथितयौवनश्रीः।
विनीतनागः किल सूत्रकारेरेन्द्रं पदं भूमिगतोऽपि भुङ्क्ते ॥२७॥
अनेन पर्यासयताश्रुबिन्दून् मुक्ताफलस्थूलत मान् स्तनेषु।
प्रत्यर्पिताः शत्रुविलासिनीनामुन्मुच्य सूत्रेण विनैव हाराः ॥२८॥
निसर्गभिन्नास्पदमेकसंस्थमस्मिन् द्वयं श्रीश्च सरस्वती च।
कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि तयोस्तृतीया॥२९॥
अथाङ्गराजादवतार्य चक्षुर्याहीति जन्यामवदत् कुमारी।
नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा, भिन्नरुचिहि लोकः॥३०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः