लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


सा यूनि तस्मिन्नभिलाषवन्धं शशाक शालीनतया न वक्तुम्।
रोमाञ्चलक्ष्येण स गात्रयष्टि भित्वा निराक्रामदरालकेश्याः॥८१॥

तथागतायां परिहासपूर्व सख्यां सखी वेत्रभृदावभाषे।
आयें व्रजामोऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श॥८२॥

सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः।
आसञ्जयामास यथाप्रदेशं कण्ठे गुणं मूर्तमिवानुरागम्॥८३॥

तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बयाऽजः।
अमंस्त कण्ठपतबाहुपाशां विदर्भराजावरजां वरेण्यः ॥८४॥

शशिनमुपगतेयं कौमुदी मेघमुक्तं।
जलनिधिमनुरूपं जहनुकन्याऽवतीर्णा।
इति समगुणयोगप्रीतयस्तत्र पौराः
श्रवणकटु नृपाणामेकवाक्यं विबव्रुः ॥८५॥

प्रमुदितवरपक्षमेकतस्तत् क्षितिपतिमण्डलमन्यतो वितानम्।
उषसि सर इव प्रफुल्लपमं कुमुदवनप्रतिपन्ननिद्रमासीत्॥८६॥

॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये इन्दुमती-स्वयंवरो नाम षष्ठः सर्गः॥







...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book