भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
हस्तेन हस्तं परिगृह्य बध्वाः स राजसूनुः सुतरां चकासे।
अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन ॥२१॥
आसीद् वरः कण्ट कितप्रकोष्ठः स्विन्नाङ्गुलिः संववृते कुमारी।
तस्मिन् द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन ॥२२॥
तयोरपाङ्गप्रतिसारितानि क्रियासमापत्तिषु१ कातराणि।
ह्रीयन्त्रणामानशिरे मनोज्ञामन्यन्य लोलानि विलोचनानि॥२३॥
प्रदक्षिणप्रक्रमणात् कृशानोरुदचषस्तन्मिथुनं चकासे।
मेरोरुपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ॥२४॥
नितम्बगुर्वी गुरुणा प्रयुक्ता वधूवधातृप्रतिमेन तेन।
चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमग्नौ॥२५॥
हविःशमीपल्लवलाजगन्धी पुण्यः कृशानोरुदियाय धूमः।
कपोलसंसपशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे॥२६॥
तदजनक्लेदसमाकुलाचं प्रम्लानबीज।कुरकर्णपूरम्।
वधूमुखे पाटलगण्डलेखमाचारधूमग्रहणाद् बभूव ॥२७॥
तौ स्नातकैर्बन्धुमता च राज्ञा पुरन्ध्रभिश्च क्रमशः प्रयुक्तम्।
कन्याकुमारी कनकासनस्थावाद्रक्षतारोपणमन्वभूताम्॥२८॥
इति स्वसुजकुलप्रदीपः संपाद्य पाणिग्रहणं स राजा।
महोपतीनां पृथगणार्थं समादिदेशाधिकृतानधिश्रीः ॥२९॥
लिङ्गमुदः संवतविक्रियास्ते दाः प्रसन्ना इव गूढनक्राः।
वैदर्भमामन्त्र्य ययुस्तदोयां प्रत्ययं पूजामुपदाच्छलेन॥३०॥
----------------------
१. वर्तनिर्वासितानि म.
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः