भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
स राजलोकः कृतपूर्वसंविदारम्भसिद्धौ १समरोपलभ्यम्।
आदास्यमानः प्रमदामिषं तदावृत्य पन्थानमजस्य तस्थौ ॥३१॥
भत्तपि तावत् ऋथकेशिकानामनुष्ठितानन्तरजाविवाहः।
सत्त्वानुरूपाहरणी२ कृतश्रीः प्रास्थापयद् राघवमन्वगाच्च॥३२॥
तिस्रस्त्रिलोकप्रथितेन सार्धमजेन मार्गे वसतीरुषित्वा।
तस्मादपावतंत कुण्डिनेशः पर्वात्यये सोम इवोष्णरेश्मेः॥३३॥
प्रमन्यवः प्रागपि कोसलेन्द्र प्रत्येकमात्तस्वतया बभूवुः।
अतो नृपाश्चक्षमिरे समेताः स्त्रीरत्नलाभं न तदात्मजस्य॥३४॥
तमुद्द्वहन्तं पथि भोजकन्यां रुरोध राजन्यगणः स दप्तः।
बलिप्रदिष्टां श्रियमाददानं त्रैविक्रमं पादमिवेन्द्रशत्रुः॥३५॥
तस्याः स रक्षार्थमनल्पयोधमादिश्य पित्र्यं सचिवं कुमारः।
प्रत्यग्रहीत् पार्थिववाहिनीं तां ३ज्योतीरथां शोण इवोत्तरङ्गः॥३६॥
पत्तिः पदाति रथिनं रथेशस्तुरङ्गसादी तुरगाधिरूढम्।
यन्ता गजस्याभ्यपतद् गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम्॥३७॥
नदत्सु तूर्येष्वविभाव्यवाचो नोदीरयन्ति स्म कुलोपदेशान्।
बाणाक्षरैरेव परस्परस्य नामोजितं चापभृतः शशंसुः॥३८॥
उत्थापितः संयति रेणु रश्वैः सान्द्रीकृतः स्यन्दनवंश चक्रः।
विस्तारितः कुञ्जरकर्णतालै४ रनुक्रमेणोपरुरोध सूर्यम्॥३६॥
मत्स्यध्वजा वायुवशाद् विदीर्णैर्मुखेः प्रवृद्धध्वजिनीरजांसि।
बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव नवोदकानि ॥४०॥
----------------------
१. समरो म.
२. आहरणं यौतुकम्, लोके 'दहेज' इति।
१. ज्योतिरा-नदी मध्यप्रदेशस्य रीवाक्षेत्रे शोणगामिनी सरित्। भागीरथीमिति तु मल्लिनाथ-हेमाद्रिभट्टी। प्राचीनटीकाकृत्सु पाण्डुग्रन्थेषु पुनर्योतीरथेत्येव पाठः। एष एव चोचितः, शोजस्याजस्थानीयत्वात् सरित्कर्तृकेऽभियोगे कर्मत्वेनान्वयस्यान्यथाऽसिद्धेः। भागीरथीपाठे पुनरभियोगे शोणकर्तृकत्वमेव प्रसिद्ध्येत्, शोणस्यैव भागीरथीगामित्वस्य दृश्यमानत्वात्।
2. नेत्रक्रमेण म०, नेत्रं क्षौमं वास इति तत्समर्थकाः। अनुक्रमस्तु श्लोकार्थ एवोपनिद्धः।
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः