भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
असह्यपीडं भगवन्नृणमन्त्यमवेहि मे।
अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः ॥७१॥
तस्मान्मुच्ये यथा तात संविधातुं तथार्हसि।
इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः॥७२॥
इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः।
क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव ह्रदः॥७३॥
सोऽपश्यत् प्रणिधानेन संततेः स्तम्भकारणम्।
भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत्॥७४॥
पुरा शक्रमुपस्थाय तवोर्वी प्रति यास्यतः।
आसीत् कल्पतरुच्छायामाश्रिता सुरभिः पथि ॥७५॥
धर्मलोपभयाद् राज्ञीमृतुस्नातामिमां स्मरन्।
प्रदक्षिणक्रियाहयां तस्यां त्वं साधु नाचरः॥७६॥
१अवजानासि मां यस्मादतस्ते न भविष्यति।
मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा॥७७॥
स शापो न त्वया राजन् न च सारथिना श्रुतः।
नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे॥७८॥
ईप्सितं तदवज्ञानाद् विद्धि सार्गलमात्मनः।
प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः॥७९॥
हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः।
भुजङ्गपिहितद्वारं पातालमधितिष्ठति॥८०॥
--------------------------
१. पद्यमिदं त्याज्यमित्यरहस्यज्ञाः। मेघविद्युदिव कामधेनुः प्रकृतिः। अतएव ‘भुजङ्गपिहिता' रघु० १।८०। मनुष्यस्तविकृतिमेव सेवेत। अत्रास्मल्लेखः ‘नन्दिनीविद्ये'ति।
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः