भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
तव मन्त्रकृतो मन्त्रैर्दुरात् प्रशमितारिभिः।
प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभदः शराः॥६१॥
हविरावजतं होतस्त्वया विधिवदग्निषु।
वृष्टिर्भवति सस्यानामवग्रहविशोषिणाम्॥६२॥
पुरुषायुषजीविन्यो निरातङ्का निरीतयः।
यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्ब्रह्मवर्चसम्॥६३॥
त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना।
सानुबन्धाः कथं न स्युः संपदो मे निरापदः॥६४॥
किन्तु वध्वां तवैतस्यामदष्टसदृशप्रजम्।
न मामवति सद्वीपा रत्नसूरपि मेदिनी॥६५॥
नूनं मत्तः परं वंश्याः पिण्डविच्छेददशिनः।
न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः॥६६॥
मत्परं दुर्लभं मत्वा नूनमावजितं मया।
पयः पूर्वैः स्वनिःश्वासैः कवोष्णमुपभुज्यते॥६७॥
सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः।
प्रकाशश्वाप्रकाशश्च लोकालोक इवाचलः॥६८॥
लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम्।
संततिः शुद्धवंश्या हि परत्रेह च शर्मणे॥६९॥
तया हीनं विधातर्मा कथं पश्यन् न दूयसे।
सिक्त स्वयमिव स्नेहाद् वन्ध्यमाश्रमवृक्षकम्॥७०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः