भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् रघुवंश महाकाव्यम्जनार्दन शास्त्री पाण्डे
|
0 |
दशमः सर्गः
पृथिवीं शासतस्तस्य पाकशासनतेजसः।
किंचिदूनमनूनद्धेः शरदामयुतं ययौ ॥१॥
न चोपलेभे पूर्वेषामुणनिर्मोक्षसाधनम्।
सुताभिधानं स ज्योतिः सद्य:शोकतमोपहम् ॥२॥
अतिष्ठत् १प्रत्ययापेक्षसंततिः स चिरं नृपः।
प्राङ् मन्थादनभिव्यक्त-रत्नोत्पत्तिरिवार्णवः॥३॥
ऋष्यशृङ्गादयस्तस्य सन्तः सन्तानकाक्षिणः।
आरेभिरे जितात्मनः पुत्रीयामिष्टिमृत्विजः॥४॥
तस्मिन्नवसरे देवाः पौलस्त्योपप्लुता हरिम्।
अभिजग्मुर्निदाघार्ता-श्छायावृक्षमिवाध्वगाः ॥५॥
ते च प्रापुरुदन्वन्तं बुबुधे२ चादिपूरुषः।
अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् ॥६॥
भोगिभोगासनासीनं ददृशुस्तं दिवौकसः।
तत्फणामण्डलोदर्चि-र्मणिद्योतित-विग्रहम्॥७॥
श्रियः पद्मनिषण्णायाः क्षौमान्तरितमेखले।
अङ्के निक्षिप्तचरणमास्तीर्णकरपल्लवे॥८॥
प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम्।
दिवसं शारदमिव प्रारम्भसुखदर्शनम्॥९॥
प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम्।
कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा॥१०॥
---------------------------
१. प्रत्ययः कारणम्। द्र० के० ३।१८, बौद्धग्रन्थाश्च।
२. हरिप्रबोधतिथिः। स च कात्तिकशुक्ला ११ पूर्णिमा वा। प्रबोधपर्व च ११-१२-तिथिसन्धौ पूणिमारात्रौ वेति पौराणिकाः। मेघदूते शापान्ताय प्रबोधपर्व एवोद्दिष्टम्, न तु तिथिः। ततश्चाषाढस्य प्रथमतिथित्वं हरिशयनतिथित्वरूपम्। तच्च प्रबोधपर्वानुरुध्य निर्णतव्यम्। स्थितं च प्रथमशब्दस्य प्रवरतापरत्वम् द्र.-र. १०।६७। प्रसिद्धं च शयनतिथौ मेघदर्शनविधानं वाराहपुराणे।
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः